|
|
 |
 |
|
|
९ शाल्यपर्व.jpg)
॥ श्रीः ॥
9.13. अध्यायः 013
Mahabharata - Shalya Parva - Chapter Topics
सङ्कुलयुद्धम्॥ 1 ॥

Mahabharata - Shalya Parva - Chapter Text
सञ्जय उवाच। 9-13-0x(5106)(60824)
अर्जुनो द्रौणिना विद्धो युद्धे बहुभिरायसैः।
तस्य चानुचरैः शूरैस्त्रिगर्तानां महारथैः॥ 9-13-1(60825)
द्रौणिं विव्याध समरे त्रिभिरेव शिलीमुखैः।
तथेतरान्महेष्वासान्द्वाभ्यां द्वाभ्यां धनञ्जयः।
भूयश्चैव महाराज शरवर्षैरवाकिरत्॥ 9-13-2(60826)
शरकण्टकितास्ते तु तावका भरतर्षभ।
न जहुः पार्थमासाद्य ताड्यमानाः शितैः शरैः॥ 9-13-3(60827)
अर्जुनं रथवंशेन द्रोणपुत्रपुरोगमाः।
परिवार्य मुदा युक्ता योधयन्तश्चकाशिरे॥ 9-13-4(60828)
तैस्तु क्षिप्ताः शरा राजन्कार्तस्वरविभूषिताः।
अर्जुनस्य रथोपस्थं पूरयामासुरञ्जसा॥ 9-13-5(60829)
तथा कृष्णौ महेष्वासौ वृषभौ सर्वधन्विनाम्।
विव्यधुश्च शरैर्घोरैः प्रहृष्टा युद्धदुर्मदाः॥ 9-13-6(60830)
कूबरं रथचक्राणि ईषा योक्त्राणि वा विभो।
युगं चैवानुकर्षं च शरभूतमभूत्तदा॥ 9-13-7(60831)
नैतादृशं दृष्टपूर्वं राजन्नेव च नः श्रुतम्।
यादृशं तत्र पार्थस्य तावकाः सम्प्रचक्रिरे॥ 9-13-8(60832)
स रथः सर्वतो भाति चित्रपुङ्खैः शितैः शरैः।
उल्काशतैः सम्प्रदीप्तं विमानमिव भूतले॥ 9-13-9(60833)
ततोऽर्जुनो महाराज शरैः सन्नतपर्वभिः।
अवाकिरत्तां पृतनां मेघो धृष्ट्येव पर्वतम्॥ 9-13-10(60834)
ते वध्यमानाः समरे पार्थनामाङ्कितैः शरैः।
पार्थभूतममन्यन्त प्रेक्षमाणास्तथाविधम्॥ 9-13-11(60835)
कोपोद्धूतशरज्वालो धनुःशब्दानिलो महान्।
सैन्येन्धनं ददाहाशु तावकं पार्थपावकः॥ 9-13-12(60836)
चक्राणां पततां चापि युगानां च धरातले।
तूणीराणां पताकानां ध्वजानां च रथैः सह॥ 9-13-13(60837)
ईषाणामनुकर्षाणां त्रिवेणूनां च भारत।
अक्षाणामथ योक्त्राणां प्रतोदानां च राशयः॥ 9-13-14(60838)
शिरसां पततां चापि कुण्डलोष्णीषधारिणाम्।
भुजानां च महाभाग स्कन्धानां च समन्ततः॥ 9-13-15(60839)
छत्राणां व्यजनैः सार्धं मकुटानां च राशयः।
समदृश्यन्त पार्थस्य रथमार्गेषु भारत॥ 9-13-16(60840)
अगम्यरूपा पृथिवी मांसशोणितकर्दमा।
भीरूणां त्रासजननी शूराणां हर्षवर्धिनी।
बभूव भरतश्रेष्ठ रुद्रस्याक्रीडनं यथा॥ 9-13-17(60841)
हत्वा तु समरे पार्थः सहस्रे द्वे परन्तपः।
रथानां सवरूथानं विधूमोऽग्निरिव ज्वलन्॥ 9-13-18(60842)
यथा हि भगवानग्निर्जगद्दग्ध्वा चराचरम्।
विधूमो दृश्यते राजंस्तथा पार्थो धऩञ्जयः॥ 9-13-19(60843)
द्रौणिस्तु समरे दृष्ट्वा पाण्डवस्य पराक्रमम्।
रथेनातिपताकेन पाण्डवं प्रत्यवारयत्॥ 9-13-20(60844)
तावुभौ पुरुषव्याघ्रौ श्वेताश्वौ धन्विनां वरौ।
समीयतुस्तदाऽन्योन्यं परस्परवधैषिणौ॥ 9-13-21(60845)
तयोरासीन्महाराज बाणवर्षं सुदारुणम्।
जीमूतयोर्यथा वृष्टिस्तपान्ते भरतर्षभ॥ 9-13-22(60846)
अन्योन्यस्पर्धिनौ तौ तु शरैः सन्नतपर्वभिः।
ततक्षतुस्तदाऽन्योन्यं शृङ्गाभ्यां वृषभाविव॥ 9-13-23(60847)
तयोर्युद्धं महाराज चिरं सममिवाभवत्।
शस्त्राणां सङ्गमश्चैव घोरस्तत्राभवत्पुनः॥ 9-13-24(60848)
ततोऽर्जुनं द्वादशभी रुक्मपुङ्खैः सुतेजनैः।
वासुदेवं च दशभिर्द्रौणिर्विव्याध भारत॥ 9-13-25(60849)
ततः प्रहस्य बीभत्सुर्व्याक्षिपद्गाण्डिवं धनुः।
मानयित्वा मुहूर्तं तु गुरुपुत्रं महाहवे॥ 9-13-26(60850)
व्यश्वसूतरथं चक्रे सव्यसाची परन्तपः।
मृदुपूर्वं ततश्चैनं पुनःपुनरताडयत्॥ 9-13-27(60851)
हताश्वे तु रथे तिष्ठन्द्रोणपुत्रस्त्वयस्मयम्।
मुसलं पाण्डुपुत्राय चिक्षेप परिघोपमम्॥ 9-13-28(60852)
तमापतन्तं सहसा हेमपट्टविभूषितम्।
चिच्छेद सप्तधा वीरः पार्थः शत्रुनिबर्हणः॥ 9-13-29(60853)
स च्छिन्नं मुसलं दृष्ट्वा द्रौणिः परमकोपनः।
आददे परिघं घोरं नगेन्द्रशिखरोपमम्।
चिक्षेप चैव पार्थाय द्रौणिर्युद्धविशारदः॥ 9-13-30(60854)
तमन्तकमिव क्रुद्दं परिघं प्रेक्ष्य पाण्डवः।
अर्जुनस्त्वरितो जघ्ने पञ्चभिः सायकोत्तमैः॥ 9-13-31(60855)
स च्छिन्नः पतितो भूमौ पार्थबाणैर्महाहवे।
दारयन्पृथिवीन्द्राणां मनः सब्देन भारत॥ 9-13-32(60856)
ततोऽपरैस्त्रिभिर्भल्लैर्द्रौणिं विव्याध पाण़्डवः॥ 9-13-33(60857)
सोऽतिविद्धो बलवता पार्थेन सुमहात्मना।
नाकम्पत तदा द्रौणिः पौरुषेषु व्यवस्थितः॥ 9-13-34(60858)
सुरथं च ततो राजन्भारद्वाजो महारथम्।
अवाकिरच्छरव्रातैः सर्वक्षत्रस्य पश्यतः॥ 9-13-35(60859)
ततस्तु सुरथोऽप्याजौ पाञ्चालानां महारथः।
रथेन मेघघोषेण द्रौणिमेवाभ्यधावत॥ 9-13-36(60860)
विकर्षन्वै धनुःश्रेष्ठं सर्वभारसहं दृढम्।
ज्वलनाशीविषनिभैः शरैश्चैनमवाकिरत्॥ 9-13-37(60861)
सुरथं तं ततः क्रुद्धमापतन्तं महारथम्।
चुकोप समरे द्रौणिर्दण्डाहत इवोरगः॥ 9-13-38(60862)
त्रिशिखां भ्रुकुटीं कृत्वा सृक्विणी परिसंलिहन्।
उद्वीक्ष्य सुरथं रोषाद्धनुर्ज्यामवमृज्य च।
मुमोच तीक्ष्णं नाराचं यमदण्डोपमद्युतिम्॥ 9-13-39(60863)
स तस्य हृदयं भित्त्वा प्रविवेशातिवेगितः।
शक्ताशनिरिवोत्सृष्टो विदार्य धरणीतलम्॥ 9-13-40(60864)
ततः स पतितो भूमौ नाराचेन समाहतः।
वज्रेण च यथा शृङ्गं पर्वतस्येव दीर्यतः॥ 9-13-41(60865)
तस्मिन्विनिहते वीरे द्रोणपुत्रः प्रतापवान्।
आरुरोह रथं तूर्णं तमेव रथिनां वरः॥ 9-13-42(60866)
ततः सज्जो महाराज द्रौणिराहवदुर्मदः।
अर्जुनं योधयामास संशप्तकवृतो रणे॥ 9-13-43(60867)
तत्र युद्धं महच्चासीदर्जुनस्य परैः सह।
मध्यन्दिनगते सूर्ये यमराष्ट्रविवर्धनम्॥ 9-13-44(60868)
तत्राश्चर्यमपश्याम दृष्ट्वा तेषां पराक्रमम्।
यदेको युगपद्वीरान्समयोधयदर्जुनः॥ 9-13-45(60869)
विमर्दः सुमहानासीदर्जुनस्य परैः सह।
शतक्रतोर्यथापूर्वं महत्या दैत्यसेनया॥ ॥ 9-13-46(60870)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे त्रयोदशोऽध्यायः॥ 13 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|